७.७.२८

माली चाभ्यद्रवद्युद्धे प्रगृह्य सशरं धनुः ।
मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः ।
विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥

M N Dutt

Like birds entering the Krauñca mountain, the arrows discharged from Mali's bow, graced with gold, hit Hari and entered (into his body).

पदच्छेदः

मालीमालिन् (१.१)
चाभ्यद्रवद् (अव्ययः)–अभ्यद्रवत् (√अभि-द्रु लङ् प्र.पु. एक.)
युद्धेयुद्ध (७.१)
प्रगृह्यप्रगृह्य (√प्र-ग्रह् + ल्यप्)
सशरं (अव्ययः)–शर (२.१)
धनुःधनुस् (२.१)
मालेर्मालि (६.१)
धनुश्च्युताधनुस्–च्युत (√च्यु + क्त, १.३)
बाणाःबाण (१.३)
कार्तस्वरविभूषिताःकार्तस्वर–विभूषित (√वि-भूषय् + क्त, १.३)
विविशुर्विविशुः (√विश् लिट् प्र.पु. बहु.)
हरिम्हरि (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
क्रौञ्चंक्रौञ्च (२.१)
पत्ररथापत्त्र–रथ (१.३)
इवइव (अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
मा ली चा भ्यद्र द्यु द्धेप्र गृह्य
रं नुः मा लेर्ध नुश्च्यु ता बा णाः
का र्तस्ववि भूषि ताःविवि शुर्ह
रि मा सा द्य क्रौ ञ्चंत्र था