७.७.३८

तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।
कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ॥

M N Dutt

Thereat the disc, possessed of the splendour of the solar disc, and resembling the wheel itself of Kāla, flooding all the heavens with radiance, brought down Māli's head to the ground.

पदच्छेदः

तत्तद् (१.१)
सूर्यमण्डलाभासंसूर्य–मण्डल–आभास (१.१)
स्वभासास्व–भास् (३.१)
भासयन्नभःभासयत् (√भासय् + शतृ, १.१)–नभस् (२.१)
कालचक्रनिभंकाल–चक्र–निभ (१.१)
चक्रंचक्र (१.१)
मालेःमालि (६.१)
शीर्षम्शीर्ष (२.१)
अपातयत्अपातयत् (√पातय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्सूर्यण्ड ला भा सं
स्व भा सा भान्न भः
काक्रनि भं क्रं
मा लेः शीर्ष पा यत्