७.७.४०

ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः ।
सिंहनादरवो मुक्तः साधु देवेति वादिभिः ॥

M N Dutt

Then the deities experiencing excess of joy set up leonine cheers with might and main, crying,' Excellent, O god.' Seeing Mali slain, Sumali and Mālyavån, burning in grief, fled precipitately towards Lankä along with their forces.

पदच्छेदः

ततःततस् (अव्ययः)
सुरैःसुर (३.३)
सुसंहृष्टैःसु (अव्ययः)–संहृष्ट (√सम्-हृष् + क्त, ३.३)
सर्वप्राणसमीरितःसर्व–प्राण–समीरित (√सम्-ईरय् + क्त, १.१)
सिंहनादरवोसिंहनाद–रव (१.१)
मुक्तःमुक्त (√मुच् + क्त, १.१)
साधुसाधु (१.१)
देवेतिदेव (८.१)–इति (अव्ययः)
वादिभिःवादिन् (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःसु रैःसु सं हृ ष्टैः
र्व प्रा मीरि तः
सिं ना वो मु क्तः
साधु दे वेति वादि भिः