७.७.४६

संछाद्यमाना हरिबाणजालैः; स्वबाणजालानि समुत्सृजन्तः ।
धावन्ति नक्तंचरकालमेघा; वायुप्रणुन्ना इव कालमेघाः ॥

M N Dutt

And driven by Hari's networks of arrows, and discharging (all the while) their own showers of shafts, those night-rangers resembling the clouds of doom, are driven like the veritable clouds of the universal dissolution drifted by the wind.

पदच्छेदः

संछाद्यमानासंछाद्यमान (√सम्-छादय् + शानच्, १.३)
हरिबाणजालैःहरि–बाण–जाल (३.३)
स्वबाणजालानिस्व–बाण–जाल (२.३)
समुत्सृजन्तःसमुत्सृजत् (√समुत्-सृज् + शतृ, १.३)
धावन्तिधावन्ति (√धाव् लट् प्र.पु. बहु.)
नक्तंचरकालमेघानक्तंचर–काल–मेघ (१.३)
वायुप्रणुन्नावायु–प्रणुन्न (√प्र-नुद् + क्त, १.३)
इवइव (अव्ययः)
कालमेघाःकाल–मेघ (१.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
सं छाद्य मा नारि बा जा लैः
स्व बा जा लानि मुत्सृ न्तः
धान्ति क्तं का मे घा
वा युप्र णु न्ना का मे घाः