७.७०.९

अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥

M N Dutt

If the punishment, which a king inflicts upon the guilty, be just it becomes the instrumental in taking the giver to heaven.

पदच्छेदः

अपराधिषुअपराधिन् (७.३)
योयद् (१.१)
दण्डःदण्ड (१.१)
पात्यतेपात्यते (√पातय् प्र.पु. एक.)
मानवेषुमानव (७.३)
वैवै (अव्ययः)
तद् (१.१)
दण्डोदण्ड (१.१)
विधिवन्मुक्तःविधिवत् (अव्ययः)–मुक्त (√मुच् + क्त, १.१)
स्वर्गंस्वर्ग (२.१)
नयतिनयति (√नी लट् प्र.पु. एक.)
पार्थिवम्पार्थिव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राधिषु यो ण्डः
पात्य ते मा वेषु वै
ण्डोविधि न्मु क्तः
स्व र्गंति पार्थि वम्