७.७१.१

एतदाख्याय रामाय महर्षिः कुम्भसंभवः ।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥

M N Dutt

Having related this story to Rāma the great saint Agastya again said in this context.

पदच्छेदः

एतद्एतद् (२.१)
आख्यायआख्याय (√आ-ख्या + ल्यप्)
रामायराम (४.१)
महर्षिःमहत्–ऋषि (१.१)
कुम्भसंभवःकुम्भ–सम्भव (१.१)
अस्याम्इदम् (७.१)
एवापरंएव (अव्ययः)–अपर (२.१)
वाक्यंवाक्य (२.१)
कथायाम्कथा (७.१)
उपचक्रमेउपचक्रमे (√उप-क्रम् लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा ख्या रा मा
र्षिः कुम्भ सं वः
स्या मे वा रं वा क्यं
था यामुक्र मे