७.७२.२

सोऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।
ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ॥

M N Dutt

Thereupon having heard everything about Arajă from a disciple, he, surrounded by his pupils, arrived at his own hermitage and beheld her there poorly, soiled with dust and like to the morning rays of the moon possessed by a planet.

पदच्छेदः

सोतद् (१.१)
ऽपश्यद्अपश्यत् (√पश् लङ् प्र.पु. एक.)
अरजांअरजा (२.१)
दीनांदीन (२.१)
रजसारजस् (३.१)
समभिप्लुताम्समभिप्लुत (√समभि-प्लु + क्त, २.१)
ज्योत्स्नाम्ज्योत्स्ना (२.१)
इवारुणग्रस्तांइव (अव्ययः)–अरुण–ग्रस्त (√ग्रस् + क्त, २.१)
प्रत्यूषेप्रत्यूष (७.१)
(अव्ययः)
विराजतीम्विराजत् (√वि-राज् + शतृ, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सो ऽपश्य जां दी नां
सा भिप्लु ताम्
ज्यो त्स्नामि वारु ग्र स्तां
प्र त्यू षेवि रा तीम्