७.७२.५

क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥

M N Dutt

This vicious wight has placed his hands in the burning flame so he shall, along with followers, meet with destruction.

पदच्छेदः

क्षयोक्षय (१.१)
ऽस्यइदम् (६.१)
दुर्मतेःदुर्मति (६.१)
प्राप्तःप्राप्त (√प्र-आप् + क्त, १.१)
सानुगस्य (अव्ययः)–अनुग (६.१)
दुरात्मनःदुरात्मन् (६.१)
यःयद् (१.१)
प्रदीप्तांप्रदीप्त (√प्र-दीप् + क्त, २.१)
हुताशस्यहुताश (६.१)
शिखांशिखा (२.१)
वैवै (अव्ययः)
स्प्रष्टुम्स्प्रष्टुम् (√स्पृश् + तुमुन्)
इच्छतिइच्छति (√इष् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष योऽस्य दुर्म तेः प्रा प्तः
सानुस्यदु रात्म नः
यःप्र दी प्तांहु तास्य
शि खां वै स्प्रष्टु मिच्छति