७.७३.५

प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदमः ।
ऋषिं समभिचक्राम गमनाय रघूत्तमः ॥

पदच्छेदः

प्रभातेप्रभात (७.१)
काल्यम्काल्यम् (अव्ययः)
उत्थायउत्थाय (√उत्-स्था + ल्यप्)
कृत्वाह्निकम्कृत्वा (√कृ + क्त्वा)–आह्निक (२.१)
अरिंदमःअरिंदम (१.१)
ऋषिंऋषि (२.१)
समभिचक्रामसमभिचक्राम (√समभि-क्रम् लिट् प्र.पु. एक.)
गमनायगमन (४.१)
रघूत्तमःरघूत्तम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र भा ते काल्य मु त्था
कृ त्वाह्नि रिं मः
षिंभि क्रा
ना घूत्त मः