७.७४.१९

प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः ।
तस्माच्छृणोमि ते वाक्यं साधूक्तं सुसमाहितम् ॥

पदच्छेदः

प्रजानांप्रजा (६.३)
पालनंपालन (१.१)
धर्मोधर्म (१.१)
राज्ञांराजन् (६.३)
यज्ञेनयज्ञ (३.१)
संमितःसंमित (√सम्-मा + क्त, १.१)
तस्माच्छृणोमितस्मात् (अव्ययः)–शृणोमि (√श्रु लट् उ.पु. )
तेत्वद् (६.१)
वाक्यंवाक्य (२.१)
साधूक्तंसाधु (२.१)–उक्त (√वच् + क्त, २.१)
सुसमाहितम्सु (अव्ययः)–समाहित (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र जा नां पा नं र्मो
रा ज्ञां ज्ञे संमि तः
स्माच्छृ णोमि ते वा क्यं
सा धू क्तंसु माहि तम्