७.७५.१

तथोक्तवति रामे तु भरते च महात्मनि ।
लक्ष्मणोऽपि शुभं वाक्यमुवाच रघुनन्दनम् ॥

M N Dutt

After the conversation between Råma and Bharata had been over, Laksmana, with reasonable words, said to the former.

पदच्छेदः

तथोक्तवतितथा (अव्ययः)–उक्तवत् (√वच् + क्तवतु, ७.१)
रामेराम (७.१)
तुतु (अव्ययः)
भरतेभरत (७.१)
(अव्ययः)
महात्मनिमहात्मन् (७.१)
लक्ष्मणोलक्ष्मण (१.१)
ऽपिअपि (अव्ययः)
शुभंशुभ (२.१)
वाक्यम्वाक्य (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
रघुनन्दनम्रघुनन्दन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थोक्तति रा मेतु
ते हात्मनि
क्ष्म णोऽपिशु भं वाक्य
मु वाघुन्द नम्