७.७४.५

इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥

M N Dutt

O slayer of foes, by celebrating Rājasūya, Mitra attained to the dignity of Varuņa.

पदच्छेदः

इष्ट्वाइष्ट्वा (√यज् + क्त्वा)
तुतु (अव्ययः)
राजसूयेनराजसूय (३.१)
मित्रःमित्र (१.१)
शत्रुनिबर्हणःशत्रु–निबर्हण (१.१)
सुहुतेनसु (अव्ययः)–हुत (√हु + क्त, ३.१)
सुयज्ञेनसु (अव्ययः)–यज्ञ (३.१)
वरुणत्वम्वरुण–त्व (२.१)
उपागमत्उपागमत् (√उपा-गम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ष्ट्वातु रा सू ये
मि त्रःत्रुनिर्ह णः
सुहु तेसु ज्ञे
रुत्वमु पा मत्