७.७५.१२

तपस्यता महाबाहो लोका वृत्रेण निर्जिताः ।
बलवान्स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम् ॥

M N Dutt

O you having long arms, by virtue of his asceticism Vſtra is about to conquer all the worlds. He is pious, so I cannot subdue him.

पदच्छेदः

तपस्यतातपस्यत् (√तपस्य् + शतृ, ३.१)
महाबाहोमहत्–बाहु (८.१)
लोकालोक (१.३)
वृत्रेणवृत्र (३.१)
निर्जिताःनिर्जित (√निः-जि + क्त, १.३)
बलवान्बलवत् (१.१)
तद् (१.१)
हिहि (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
नैनं (अव्ययः)–एनद् (२.१)
शक्ष्यामिशक्ष्यामि (√शक् लृट् उ.पु. )
बाधितुम्बाधितुम् (√बाध् + तुमुन्)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य ता हा बा हो
लो का वृ त्रे निर्जि ताः
वान्सहि र्मा त्मा
नै नं क्ष्यामि बाधि तुम्