७.७५.१३

यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वर ।
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥

M N Dutt

O illustrious Sir, if his ascetic powers grow more we shall be constrained to live under his control for ever from the creation.

पदच्छेदः

यद्यसौयदि (अव्ययः)–अदस् (१.१)
तपतपस् (२.१)
आतिष्ठेद्आतिष्ठेत् (√आ-स्था विधिलिङ् प्र.पु. एक.)
भूयभूयस् (अव्ययः)
एवएव (अव्ययः)
सुरेश्वरसुरेश्वर (८.१)
यावल्लोकायावत् (अव्ययः)–लोक (१.३)
धरिष्यन्तिधरिष्यन्ति (√धृ लृट् प्र.पु. बहु.)
तावद्तावत् (अव्ययः)
अस्यइदम् (६.१)
वशानुगाःवश–अनुग (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्य सौ ति ष्ठे
द्भूसु रेश्व
या ल्लो का रि ष्यन्ति
तास्य शानु गाः