७.७५.४

पुरा किल महाबाहो देवासुरसमागमे ।
वृत्रो नाम महानासीद्दैतेयो लोकसंमतः ॥

M N Dutt

O you having long arms, formerly, during the war between gods and demons there flourished a highly honoured Asura under the name of Vſtra.

पदच्छेदः

पुरापुरा (अव्ययः)
किलकिल (अव्ययः)
महाबाहोमहत्–बाहु (८.१)
देवासुरसमागमेदेव–असुर–समागम (७.१)
वृत्रोवृत्र (१.१)
नामनाम (अव्ययः)
महान्महत् (१.१)
आसीद्आसीत् (√अस् लङ् प्र.पु. एक.)
दैतेयोदैतेय (१.१)
लोकसंमतःलोक–संमत (√सम्-मन् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु राकि हा बा हो
दे वासु मा मे
वृ त्रो ना हा ना सी
द्दै ते यो लो सं तः