७.७६.१७

हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः ।
विष्णुं त्रिभुवणश्रेष्ठं मुहुर्मुहुरपूजयन् ॥

पदच्छेदः

हतारयःहत (√हन् + क्त)–अरि (१.३)
प्रनष्टेन्द्राप्रनष्ट (√प्र-नश् + क्त)–इन्द्र (१.३)
देवाःदेव (१.३)
साग्निपुरोगमाः (अव्ययः)–अग्नि–पुरोगम (१.३)
विष्णुंविष्णु (२.१)
त्रिभुवनश्रेष्ठंत्रिभुवन–श्रेष्ठ (२.१)
मुहुर्मुहुर् (अव्ययः)
मुहुर्मुहुर् (अव्ययः)
अपूजयन्अपूजयन् (√पूजय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता यःप्र ष्टे न्द्रा
दे वाः साग्निपु रो माः
वि ष्णुंत्रिभु श्रे ष्ठं
मु हुर्मुहु पू यन्