७.७६.१९

हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।
बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश ॥

पदच्छेदः

हतश्चायंहत (√हन् + क्त, १.१)–च (अव्ययः)–इदम् (१.१)
त्वयात्वद् (३.१)
वृत्रोवृत्र (१.१)
ब्रह्महत्याब्रह्महत्या (१.१)
(अव्ययः)
वासवम्वासव (२.१)
बाधतेबाधते (√बाध् लट् प्र.पु. एक.)
सुरशार्दूलसुर–शार्दूल (८.१)
मोक्षंमोक्ष (२.१)
तस्यतद् (६.१)
विनिर्दिशविनिर्दिश (√विनिः-दिश् लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्चा यंत्व या वृ त्रो
ब्रह्म त्या वा वम्
बा तेसु शा र्दू
मो क्षंस्यवि निर्दि