७.७६.३

सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥

M N Dutt

Hearing the words of Indra and other deities Visnu replied.

पदच्छेदः

सहस्राक्षवचःसहस्राक्ष–वचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
सर्वेषांसर्व (६.३)
(अव्ययः)
दिवौकसाम्दिवौकस् (६.३)
विष्णुर्विष्णु (१.१)
देवान्देव (२.३)
उवाचेदंउवाच (√वच् लिट् प्र.पु. एक.)–इदम् (२.१)
सर्वान्सर्व (२.३)
इन्द्रपुरोगमान्इन्द्र–पुरोगम (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्राक्ष चः श्रु त्वा
र्वे षांदि वौ साम्
वि ष्णु र्दे वानु वा चे दं
र्वा निन्द्रपु रो मान्