७.७७.१

तथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।
कथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत् ॥

पदच्छेदः

तथातथा (अव्ययः)
वृत्रवधंवृत्र–वध (२.१)
सर्वम्सर्व (२.१)
अखिलेनअखिलेन (अव्ययः)
तद् (१.१)
लक्ष्मणःलक्ष्मण (१.१)
कथयित्वाकथयित्वा (√कथय् + क्त्वा)
नरश्रेष्ठःनर–श्रेष्ठ (१.१)
कथाशेषम्कथा–शेष (२.१)
उपाक्रमत्उपाक्रमत् (√उप-क्रम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था वृत्र धंर्व
खि लेक्ष्म णः
यि त्वा श्रे ष्ठः
था शेमु पाक्र मत्