७.७७.१३

एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।
द्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः ॥

पदच्छेदः

एकेनांशेनएक (३.१)–अंश (३.१)
वत्स्यामिवत्स्यामि (√वस् लृट् उ.पु. )
पूर्णोदासुपूर्ण (√पृ + क्त)–उद (७.३)
नदीषुनदी (७.३)
वैवै (अव्ययः)
द्वितीयेनद्वितीय (३.१)
तुतु (अव्ययः)
वृक्षेषुवृक्ष (७.३)
सत्यम्सत्य (२.१)
एतद्एतद् (२.१)
ब्रवीमिब्रवीमि (√ब्रू लट् उ.पु. )
वःत्वद् (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

के नां शे त्स्यामि
पू र्णो दासु दीषु वै
द्वि ती येतु वृ क्षेषु
त्य मेद्ब्र वीमि वः