७.७७.१५

हन्तारो ब्राह्मणान्ये तु प्रेक्षापूर्वमदूषकान् ।
तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥

पदच्छेदः

हन्तारोहन्तारः (√हन् लुट् प्र.पु. बहु.)
ब्राह्मणान्ब्राह्मण (२.३)
येयद् (१.३)
तुतु (अव्ययः)
प्रेक्षापूर्वम्प्रेक्षा–पूर्वम् (अव्ययः)
अदूषकान्अदूषक (२.३)
तांश्चतुर्थेनतद् (२.३)–चतुर्थ (३.१)
भागेनभाग (३.१)
संश्रयिष्येसंश्रयिष्ये (√सम्-श्रि लृट् उ.पु. )
सुरर्षभाःसुर–ऋषभ (८.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्ता रो ब्राह्म णा न्येतु
प्रे क्षा पूर्व दू कान्
तांश्च तु र्थे भा गे
संश्र यि ष्येसुर्ष भाः