७.७७.५

निःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा ।
संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥

पदच्छेदः

निःस्रोतसश्चाम्बुवाहानिःस्रोतस् (१.३)–च (अव्ययः)–अम्बु–वाह (१.३)
ह्रदाश्चह्रद (१.३)–च (अव्ययः)
सरितस्तथासरित् (१.३)–तथा (अव्ययः)
संक्षोभश्चैवसंक्षोभ (१.१)–च (अव्ययः)–एव (अव्ययः)
सत्त्वानाम्सत्त्व (६.३)
अनावृष्टिकृतोअनावृष्टि–कृत (√कृ + क्त, १.१)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निः स्रो श्चाम्बु वा हा
ह्र दाश्चरिस्त था
सं क्षो श्चै त्त्वा ना
ना वृष्टिकृ तोऽभ वत्