७.७८.२०

ततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना ।
न स जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥

पदच्छेदः

ततःततस् (अव्ययः)
तद् (१.१)
राजाराजन् (१.१)
शोकार्ताःशोक–आर्त (१.३)
प्रत्याख्यातोप्रत्याख्यात (√प्रत्या-ख्या + क्त, १.१)
महात्मनामहात्मन् (३.१)
(अव्ययः)
तद् (१.१)
जग्राहजग्राह (√ग्रह् लिट् प्र.पु. एक.)
स्त्रीभूतोस्त्री–भूत (√भू + क्त, १.१)
वरम्वर (२.१)
अन्यंअन्य (२.१)
सुरोत्तमात्सुरोत्तम (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः रा जा शो का र्ताः
प्र त्या ख्या तो हात्म ना
ग्रा स्त्री भू तो
न्यंसु रोत्त मात्