७.७८.२७

ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।
प्रत्युवाच शुभं वाक्यमेवमेतद्भविष्यति ॥

पदच्छेदः

ईप्सितंईप्सित (२.१)
तस्यतद् (६.१)
विज्ञायविज्ञाय (√वि-ज्ञा + ल्यप्)
देवीदेवी (१.१)
सुरुचिराननासु (अव्ययः)–रुचिर–आनन (१.१)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
शुभंशुभ (२.१)
वाक्यम्वाक्य (२.१)
एवम्एवम् (अव्ययः)
एतद्एतद् (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्सि तंस्य वि ज्ञा
दे वीसुरुचि रा ना
प्रत्यु वाशु भं वाक्य
मे मेद्भ विष्यति