७.७८.२९

एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः ।
त्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत् ॥

M N Dutt

O Lakşmaņa, by virtue of this boon, the king Ila for one month used to become a man and for the next used to become female, charming in the three worlds under the name of Ilă.

पदच्छेदः

एवंएवम् (अव्ययः)
तद् (१.१)
राजाराजन् (१.१)
पुरुषोपुरुष (१.१)
मासंमास (२.१)
भूत्वाथभूत्वा (√भू + क्त्वा)–अथ (अव्ययः)
कार्दमिःकार्दमि (१.१)
त्रैलोक्यसुन्दरीत्रैलोक्य–सुन्दर (१.१)
नारीनारी (१.१)
मासम्मास (२.१)
एकम्एक (२.१)
इलाभवत्इला (१.१)–अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं रा जापुरु षो
मा सं भू त्वा कार्द मिः
त्रै लोक्य सुन्द री ना री
मा मेमि ला वत्