७.७९.१५

सदृशीयं मम भवेद्यदि नान्यपरिग्रहा ।
इति बुद्धिं समास्थाय जलात्स्थलमुपागमत् ॥

पदच्छेदः

सदृशीयंसदृश (१.१)–इदम् (१.१)
मममद् (६.१)
भवेद्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
यदियदि (अव्ययः)
नान्यपरिग्रहा (अव्ययः)–अन्य–परिग्रह (१.१)
इतिइति (अव्ययः)
बुद्धिंबुद्धि (२.१)
समास्थायसमास्थाय (√समा-स्था + ल्यप्)
जलात्जल (५.१)
स्थलम्स्थल (२.१)
उपागमत्उपागमत् (√उप-गम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दृ शी यं वे
द्यदि नान्य रिग्र हा
ति बु द्धिं मा स्था
लात्स्थमु पा मत्