७.८.१०

ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।
माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥

M N Dutt

Thereat drawing out the same dart, that one dear to the Wielder of the Dart,* having eyes resembling red lotuses, aiming at Mālyāvan, hurled it at him. *A name of Kārtikeya, the celestial generallissimo.

पदच्छेदः

ततस्ताम्ततस् (अव्ययः)–तद् (२.१)
एवएव (अव्ययः)
चोत्कृष्य (अव्ययः)–उत्कृष्य (√उत्-कृष् + ल्यप्)
शक्तिंशक्ति (२.१)
शक्तिधरप्रियःशक्ति–धर–प्रिय (१.१)
माल्यवन्तंमाल्यवन्त् (२.१)
समुद्दिश्यसमुद्दिश्य (√समुत्-दिश् + ल्यप्)
चिक्षेपाम्बुरुहेक्षणःचिक्षेप (√क्षिप् लिट् प्र.पु. एक.)–अम्बुरुह–ईक्षण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्ता मे चो त्कृष्य
क्तिंक्तिप्रि यः
माल्य न्तं मु द्दिश्य
चि क्षे पाम्बुरु हेक्ष णः