७.८.१२

सा तस्योरसि विस्तीर्णे हारभासावभासिते ।
अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ॥

पदच्छेदः

सातद् (१.१)
तस्योरसितद् (६.१)–उरस् (७.१)
विस्तीर्णेविस्तीर्ण (√वि-स्तृ + क्त, ७.१)
हारभासावभासितेहार–भास–अवभासित (√अव-भासय् + क्त, ७.१)
अपतद्अपतत् (√पत् लङ् प्र.पु. एक.)
राक्षसेन्द्रस्यराक्षस–इन्द्र (६.१)
गिरिकूटगिरि–कूट (७.१)
इवाशनिःइव (अव्ययः)–अशनि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा स्योसि वि स्ती र्णे
हा भा सा भासि ते
द्राक्ष से न्द्रस्य
गिरि कू वा निः