७.८.१४

ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिश्चितम् ।
प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥

M N Dutt

Then taking up a javelin made of black iror girt with many a thorn, he furiously smote that deity on the chest.

पदच्छेदः

ततःततस् (अव्ययः)
कार्ष्णायसंकार्ष्णायस (२.१)
शूलंशूल (२.१)
कण्टकैर्कण्टक (३.३)
बहुभिश्चितम्बहु (३.३)–चित (√चि + क्त, २.१)
प्रगृह्याभ्यहनद्प्रगृह्य (√प्र-ग्रह् + ल्यप्)–अभ्यहनत् (√अभि-हन् प्र.पु. एक.)
देवंदेव (२.१)
स्तनयोर्स्तन (६.२)
अन्तरेअन्तर (७.१)
दृढम्दृढम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः का र्ष्णा सं शू लं
ण्ट कैर्बहु भिश्चि तम्
प्र गृ ह्याभ्य द्दे वं
स्त योन्त रेदृ ढम्