७.८.६

उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।
युष्मत्तो भयभीतानां देवानां वै मयाभयम् ।
राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥

M N Dutt

I have removed the fear of the deities, affrighted at you, by promising that I will make root and branch work with the Räkşasas; and that same promise I am now fulfilling.

पदच्छेदः

उवाचउवाच (√वच् लिट् प्र.पु. एक.)
राक्षसेन्द्रंराक्षस–इन्द्र (२.१)
तंतद् (२.१)
देवराजानुजोदेवराज–अनुज (१.१)
बलीबलिन् (१.१)
भयभीतानांभय–भीत (√भी + क्त, ६.३)
देवानांदेव (६.३)
वैवै (अव्ययः)
मयाभयम्मद् (३.१)–अभय (१.१)
राक्षसोत्सादनंराक्षस–उत्सादन (१.१)
दत्तंदत्त (√दा + क्त, १.१)
तद्तद् (१.१)
एतद्एतद् (१.१)
अनुपाल्यतेअनुपाल्यते (√अनु-पालय् प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
वा राक्ष से न्द्रं तं दे रा जा
नु जो ली यु ष्म त्तो भी ता नां
दे वा नां वै या यम् राक्ष सो त्सा
नं त्तं देनु पाल्य ते