७.८.७

प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ।
सोऽहं वो निहनिष्यामि रसातलगतानपि ॥

M N Dutt

I should always lay down my life for serving the celestials and you I will slay even if you should go to the nethermost regions.

पदच्छेदः

प्राणैर्प्राण (३.३)
अपिअपि (अव्ययः)
प्रियंप्रिय (१.१)
कार्यंकार्य (१.१)
देवानांदेव (६.३)
हिहि (अव्ययः)
सदासदा (अव्ययः)
मयामद् (३.१)
सोतद् (१.१)
ऽहंमद् (१.१)
वोत्वद् (२.३)
निहनिष्यामिनिहनिष्यामि (√नि-हन् लृट् उ.पु. )
रसातलगतान्रसातल–गत (√गम् + क्त, २.३)
अपिअपि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रा णै पिप्रि यं का र्यं
दे वा नांहि दा या
सो ऽहं वोनि नि ष्यामि
सा तापि