७.८.५

युद्धश्रद्धाथ वा तेऽस्ति शङ्खचक्रगदाधर ।
अहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव ॥

M N Dutt

If you are bent upon battle, a holder of the conch, the discus and the mace, taking up my post (here), I shall see (your strength). Do you show (me) the same.

पदच्छेदः

युद्धश्रद्धाथयुद्ध–श्रद्धा (१.१)–अथ (अव्ययः)
वावा (अव्ययः)
तेत्वद् (६.१)
ऽस्तिअस्ति (√अस् लट् प्र.पु. एक.)
शङ्खचक्रगदाधरशङ्ख–चक्र–गदा–धर (८.१)
अहंमद् (१.१)
स्थितोस्थित (√स्था + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
बलंबल (१.१)
दर्शयदर्शय (√दर्शय् लोट् म.पु. )
यत्यद् (१.१)
तवत्वद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यु द्ध श्र द्धा वा तेऽस्ति
ङ्खक्र दा
हंस्थि तोऽस्मि श्यामि
लंर्शत्त