७.८०.११

भगवन्पर्वतं दुर्गं प्रविष्टोऽस्मि सहानुगः ।
न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥

M N Dutt

'O illustrious Sir, with my followers I entered this dense forest-I do not see them now anywhere. Where have they gone?

पदच्छेदः

भगवन्भगवत् (८.१)
पर्वतंपर्वत (२.१)
दुर्गंदुर्ग (२.१)
प्रविष्टोप्रविष्ट (√प्र-विश् + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
सहानुगःसह (अव्ययः)–अनुग (१.१)
(अव्ययः)
(अव्ययः)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
तत्तद् (२.१)
सैन्यंसैन्य (२.१)
क्वक्व (अव्ययः)
नुनु (अव्ययः)
तेतद् (१.३)
मामकामामक (१.३)
गताःगत (√गम् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्पर्व तं दु र्गं
प्र वि ष्टोऽस्मि हानु गः
श्यामि त्सै न्यं
क्वनु ते मा का ताः