७.८१.२०

निवृत्ते हयमेधे तु गते चादर्शनं हरे ।
यथागतं द्विजाः सर्वे अगच्छन्दीर्घदर्शिनः ॥

पदच्छेदः

निवृत्तेनिवृत्त (√नि-वृत् + क्त, ७.१)
हयमेधेहयमेध (७.१)
तुतु (अव्ययः)
गतेगत (√गम् + क्त, ७.१)
चादर्शनं (अव्ययः)–अदर्शन (२.१)
हरेहर (७.१)
यथागतंयथागत (२.१)
द्विजाःद्विज (१.३)
सर्वेसर्व (१.३)
अगच्छन्अगच्छन् (√गम् लङ् प्र.पु. बहु.)
दीर्घदर्शिनःदीर्घ–दर्शिन् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि वृ त्ते मे धेतु
ते चार्श नं रे
था तंद्वि जाः र्वे
च्छ न्दीर्घर्शि नः