७.८१.२१

राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ।
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥

पदच्छेदः

राजाराजन् (१.१)
तुतु (अव्ययः)
बाह्लिम्बाह्लि (२.१)
उत्सृज्यउत्सृज्य (√उत्-सृज् + ल्यप्)
मध्यदेशेमध्यदेश (७.१)
ह्यनुत्तमम्हि (अव्ययः)–अनुत्तम (२.१)
निवेशयामासनिवेशयामास (√नि-वेशय् प्र.पु. एक.)
पुरंपुर (२.१)
प्रतिष्ठानंप्रतिष्ठान (२.१)
यशस्करम्यशस्कर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा जातु बाह्लि मु त्सृज्य
ध्य दे शेह्य नुत्त मम्
नि वे या मापु रं
प्र ति ष्ठा नंस्क रम्