७.८१.२२

शशबिन्दुस्तु राजासीद्बाह्ल्यां परपुरंजयः ।
प्रतिष्ठान इलो राजा प्रजापतिसुतो बली ॥

पदच्छेदः

शशबिन्दुस्तुशशबिन्दु (१.१)–तु (अव्ययः)
राजासीद्राजन् (१.१)–आसीत् (√अस् लङ् प्र.पु. एक.)
बाह्ल्यांबाह्लि (७.१)
परपुरंजयःपर–पुरंजय (१.१)
प्रतिष्ठानप्रतिष्ठान (७.१)
इलोइल (१.१)
राजाराजन् (१.१)
प्रजापतिसुतोप्रजापति–सुत (१.१)
बलीबलिन् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बि न्दुस्तु रा जा सी
द्बा ह्ल्यांपु रं यः
प्र ति ष्ठा लो रा जा
प्र जातिसु तो ली