७.८१.२३

स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् ।
ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥

पदच्छेदः

तद् (१.१)
कालेकाल (७.१)
प्राप्तवांल्प्राप्तवत् (√प्र-आप् + क्तवतु, १.१)
लोकम्लोक (२.१)
इलोइल (१.१)
ब्राह्मम्ब्राह्म (२.१)
अनुत्तमम्अनुत्तम (२.१)
ऐलःऐल (१.१)
पुरूरवापुरूरवस् (१.१)
राजाराजन् (१.१)
प्रतिष्ठानम्प्रतिष्ठान (२.१)
अवाप्तवान्अवाप्तवत् (√अव-आप् + क्तवतु, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का ले प्राप्त वा ल्लो
मि लो ब्राह्म नुत्त मम्
लःपु रू वा रा जा
प्र ति ष्ठा वाप्त वान्