७.८१.२४

ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥

M N Dutt

O foremost of men, such is the power of the horse-sacrifice, that the king Ila, though converted into a female, regained manhood by virtue thereof.

पदच्छेदः

ईदृशोईदृश (१.१)
ह्यश्वमेधस्यहि (अव्ययः)–अश्वमेध (६.१)
प्रभावःप्रभाव (१.१)
पुरुषर्षभौपुरुष–ऋषभ (८.२)
स्त्रीभूतःस्त्री–भूत (√भू + क्त, १.१)
पौरुषंपौरुष (२.१)
लेभेलेभे (√लभ् लिट् प्र.पु. एक.)
यच्चान्यद्यद् (१.१)–च (अव्ययः)–अन्य (१.१)
अपिअपि (अव्ययः)
दुर्लभम्दुर्लभ (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दृ शो ह्यश्व मेस्य
प्र भा वःपुरुर्ष भौ
स्त्री भू तः पौरु षं ले भे
च्चान्यपि दुर्ल भम्