७.८१.४

पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।
संवर्तं परमोदारमाजुहाव महायशाः ॥

पदच्छेदः

पुरुषत्वंपुरुष–त्व (२.१)
गतेगत (√गम् + क्त, ७.१)
शूरेशूर (७.१)
बुधःबुध (१.१)
परमबुद्धिमान्परम–बुद्धिमत् (१.१)
संवर्तंसंवर्त (२.१)
परमोदारम्परम–उदार (२.१)
आजुहावआजुहाव (√आ-ह्वा लिट् प्र.पु. एक.)
महायशाःमहत्–यशस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुरु त्वं ते शू रे
बु धः बुद्धि मान्
सं र्तं मो दा
माजु हा हा शाः