७.८१.६

एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शिनः ।
उवाच सर्वान्सुहृदो धैर्येण सुसमाहितः ॥

पदच्छेदः

एतान्एतद् (२.३)
सर्वान्सर्व (२.३)
समानीयसमानीय (√समा-नी + ल्यप्)
वाक्यज्ञस्तत्त्वदर्शिनःवाक्य–ज्ञ (१.१)–तत्त्व–दर्शिन् (२.३)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
सर्वान्सर्व (२.३)
सुहृदोसुहृद् (२.३)
धैर्येणधैर्य (३.१)
सुसमाहितःसु (अव्ययः)–समाहित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता न्स र्वान्स मा नी
वा क्य ज्ञ स्तत्त्वर्शि नः
वा र्वान्सुहृ दो
धै र्येसु माहि तः