७.८२.९

शीघ्रं महद्भिर्हरिभिर्बहुभिश्च तदाश्रयैः ।
सार्धमागच्छ भद्रं ते अनुभोक्तुं मखोत्तमम् ॥

पदच्छेदः

शीघ्रंशीघ्रम् (अव्ययः)
महद्भिर्महत् (३.३)
हरिभिर्हरि (३.३)
बहुभिश्चबहु (३.३)–च (अव्ययः)
तदाश्रयैःतद्–आश्रय (३.३)
सार्धम्सार्धम् (अव्ययः)
आगच्छआगच्छ (√आ-गम् लोट् म.पु. )
भद्रंभद्र (१.१)
तेत्वद् (४.१)
अनुभोक्तुंअनुभोक्तुम् (√अनु-भुज् + तुमुन्)
मखोत्तमम्मख–उत्तम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शी घ्रं द्भिर्हरिभि
र्बहु भिश्च दाश्र यैः
सार्ध माच्छ द्रं ते
नु भो क्तुं खोत्त मम्