७.८३.९

एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत ।
लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता ॥

पदच्छेदः

एवंएवम् (अव्ययः)
सुविहितोसु (अव्ययः)–विहित (√वि-धा + क्त, १.१)
यज्ञोयज्ञ (१.१)
हयमेधोहयमेध (१.१)
ऽभ्यवर्ततअभ्यवर्तत (√अभि-वृत् लङ् प्र.पु. एक.)
लक्ष्मणेनाभिगुप्तालक्ष्मण (३.१)–अभिगुप्त (√अभि-गुप् + क्त, १.१)
(अव्ययः)
हयचर्याहय–चर्या (१.१)
प्रवर्तिताप्रवर्तित (√प्र-वर्तय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंसुविहि तो ज्ञो
मे धोऽभ्यर्त
क्ष्म णे नाभि गु प्ता
र्याप्रर्ति ता