७.८४.१२

इमास्तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम् ।
मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ ॥

M N Dutt

O Kuśa and Lava, in your proper mood do you sing the sweet song with charming Murchanā accompanied by the sweet notes of Vīņā.

पदच्छेदः

इमास्तन्त्रीःइदम् (२.३)–तन्त्री (२.३)
सुमधुराःसु (अव्ययः)–मधुर (२.३)
स्थानंस्थान (२.१)
वावा (अव्ययः)
पूर्वदर्शितम्पूर्व–दर्शित (√दर्शय् + क्त, २.१)
मूर्छयित्वामूर्छयित्वा (√मूर्छय् + क्त्वा)
सुमधुरंसु (अव्ययः)–मधुर (२.१)
गायेतांगायेताम् (√गा विधिलिङ् प्र.पु. द्वि.)
विगतज्वरौविगत (√वि-गम् + क्त)–ज्वर (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा स्त न्त्रीःसुधु राः
स्था नं वा पूर्वर्शि तम्
मूर्छ यि त्वासुधु रं
गा ये तांविज्व रौ