७.८७.१२

साधु सीतेति केचित्तु साधु रामेति चापरे ।
उभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन् ॥

पदच्छेदः

साधुसाधु (१.१)
सीतेतिसीता (१.१)–इति (अव्ययः)
केचित्कश्चित् (१.३)
तुतु (अव्ययः)
साधुसाधु (१.१)
रामेतिराम (८.१)–इति (अव्ययः)
चापरे (अव्ययः)–अपर (१.३)
उभावेवउभ् (१.२)–एव (अव्ययः)
तुतु (अव्ययः)
तत्रान्येतत्र (अव्ययः)–अन्य (१.३)
साधुसाधु (२.१)
साध्वितिसाधु (२.१)–इति (अव्ययः)
चाब्रुवन् (अव्ययः)–ब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

साधु सी तेति के चित्तु
साधु रा मेति चा रे
भा वेतु त्रा न्ये
साधु साध्विति चाब्रु वन्