७.८७.१४

इयं दाशरथे सीता सुव्रता धर्मचारिणी ।
अपापा ते परित्यक्ता ममाश्रमसमीपतः ॥

पदच्छेदः

इयंइदम् (१.१)
दाशरथेदाशरथि (८.१)
सीतासीता (१.१)
सुव्रतासुव्रत (१.१)
धर्मचारिणीधर्मचारिणी (१.१)
अपापाअपाप (१.१)
तेत्वद् (६.१)
परित्यक्तापरित्यक्त (√परि-त्यज् + क्त, १.१)
ममाश्रमसमीपतःमद् (६.१)–आश्रम–समीप (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यं दा थे सी ता
सुव्र तार्म चारि णी
पा पा ते रि त्य क्ता
माश्र मी तः