७.८७.१९

अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव ।
विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे ॥

M N Dutt

O descendant of Raghu, finding Sitä pure in mind and five elements of body I took her near the spring in the forest.

पदच्छेदः

अहंमद् (१.१)
पञ्चसुपञ्चन् (७.३)
भूतेषुभूत (७.३)
मनःषष्ठेषुमनस्–षष्ठ (७.३)
राघवराघव (८.१)
विचिन्त्यविचिन्त्य (√वि-चिन्तय् + ल्यप्)
सीतांसीता (२.१)
शुद्धेतिशुद्ध (१.१)–इति (अव्ययः)
न्यगृह्णांन्यगृह्णाम् (√नि-ग्रह् लङ् उ.पु. )
वननिर्झरेवन–निर्झर (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हंञ्चसु भू तेषु
नः ष्ठेषु रा
वि चिन्त्य सी तां शु द्धेति
न्य गृ ह्णां निर्झ रे