७.८७.२०

इयं शुद्धसमाचारा अपापा पतिदेवता ।
लोकापवादभीतस्य दास्यति प्रत्ययं तव ॥

M N Dutt

Besides this Sitā, of pure ways, divested of sins and ever considering her husband as deity, shall give testimony this day.

पदच्छेदः

इयंइदम् (१.१)
शुद्धसमाचाराशुद्ध (√शुध् + क्त)–समाचार (१.१)
अपापाअपाप (१.१)
पतिदेवतापति–देवता (१.१)
लोकापवादभीतस्यलोक–अपवाद–भीत (√भी + क्त, ६.१)
दास्यतिदास्यति (√दा लृट् प्र.पु. एक.)
प्रत्ययंप्रत्यय (२.१)
तवत्वद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यं शुद्ध मा चा रा
पा पाति दे ता
लो का वा भीस्य
दास्य ति प्रत्य यं