७.८८.१६

एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ।
व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ॥

M N Dutt

Eulogising her at that time, the celestials said: Oh! highly praiseworthy is your conduct, O Sītā. Being present in the welkin and beholding Sītā enter into the Earth, the celestials again and again eulogised her in various words.

पदच्छेदः

एवंएवम् (अव्ययः)
बहुविधाबहुविध (२.३)
वाचोवाच् (२.३)
ह्यन्तरिक्षगताःहि (अव्ययः)–अन्तरिक्ष–गत (√गम् + क्त, १.३)
सुराःसुर (१.३)
व्याजह्रुर्व्याजह्रुः (√व्या-हृ लिट् प्र.पु. बहु.)
हृष्टमनसोहृष्ट (√हृष् + क्त)–मनस् (१.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
सीताप्रवेशनम्सीता–प्रवेशन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंहुवि धा वा चो
ह्यन्त रिक्ष ताःसु राः
व्या ह्रु र्हृष्ट सो
दृ ष्ट्वा सी ताप्र वे नम्