७.८८.२

एवमेतन्महाभाग यथा वदसि धर्मवित् ।
प्रत्ययो हि मम ब्रह्मंस्तव वाक्यैरकल्मषैः ॥

M N Dutt

O great one, you are conversant with piety. By your words shorn of sin, I have been convinced that Janaki is of pure ways. Still, O Brāhmaṇa, what you have commanded shall be carried out; let Sītā produce testimony of the purity of her character.

पदच्छेदः

एवम्एवम् (अव्ययः)
एतन्महाभागएतद् (२.१)–महाभाग (८.१)
यथायथा (अव्ययः)
वदसिवदसि (√वद् लट् म.पु. )
धर्मवित्धर्म–विद् (८.१)
प्रत्ययोप्रत्यय (१.१)
हिहि (अव्ययः)
मममद् (६.१)
ब्रह्मंस्तवब्रह्मन् (८.१)–त्वद् (६.१)
वाक्यैर्वाक्य (३.३)
अकल्मषैःअकल्मष (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मेन्म हा भा
थासिर्म वित्
प्रत्य योहि ब्र ह्मं
स्त वा क्यैल्म षैः