७.८८.३

प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौ ।
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।
परित्यक्ता मया सीता तद्भवान्क्षन्तुमर्हति ॥

M N Dutt

O Brāhmaṇa, vilification of the people is very powerful. Although I know that Jānaki has not been touched by any sin still I have renounced her. Do you therefore forgive me.

पदच्छेदः

प्रत्ययोप्रत्यय (१.१)
हिहि (अव्ययः)
पुरापुरा (अव्ययः)
दत्तोदत्त (√दा + क्त, १.१)
वैदेह्यावैदेही (३.१)
सुरसंनिधौसुर–संनिधि (७.१)
सेयंतद् (१.१)–इदम् (१.१)
लोकभयाद्लोक–भय (५.१)
ब्रह्मन्न्ब्रह्मन् (८.१)
अपापेत्यभिजानताअपाप (१.१)–इति (अव्ययः)–अभिजानत् (√अभि-ज्ञा + शतृ, ३.१)
परित्यक्तापरित्यक्त (√परि-त्यज् + क्त, १.१)
मयामद् (३.१)
सीतासीता (१.१)
तद्तद् (२.१)
भवान्भवत् (१.१)
क्षन्तुम्क्षन्तुम् (√क्षम् + तुमुन्)
अर्हतिअर्हति (√अर्ह् लट् प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
प्रत्य योहिपु रा त्तो वै दे ह्यासु
संनि धौ से यं लो या द्ब्रह्म
न्न पा पेत्यभि जा ता रि त्य क्ता
या सी ताद्भ वा न्क्षन्तुर्हति